(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.163. अध्यायः 163
Mahabharata - Vana Parva - Chapter Topics
कुबेरेण युधिष्ठिरानुशासनपूर्वकं स्वभवनगमनम् ॥ 1 ॥ कुबेराज्ञया राक्षसपूजितैर्युधिष्ठिरादिभिस्तद्रात्रौ तद्गृहे सुखवासः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

धनद उवाच। 3-163-0x(2302)(22243)
युधिष्ठिर धृतिर्दाक्ष्यं देशकालपराक्रमाः।
लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ 3-163-1(22244)
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत।
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ 3-163-2(22245)
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित्।
क्षत्रियः क्षत्रियश्रेष्ठ शास्ति वै पृथिवीमनु ॥ 3-163-3(22246)
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु।
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥ 3-163-4(22247)
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्।
संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ 3-163-5(22248)
[यस्तु केवलसंरम्भात्प्रपातं न निरीक्षते।]
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते।
कर्मणामविभागज्ञः प्रेत्य चेह विनश्यति ॥ 3-163-6(22249)
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्।
वृथाचारसमारम्भः प्रेत्य चेह विनश्यति ॥ 3-163-7(22250)
साहसे वर्तमानानां निकृतीनां दुरात्मनाम्।
सर्वेषामर्थलिप्सूनां पापो भवति निश्चयः ॥ 3-163-8(22251)
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः।
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ 3-163-9(22252)
आर्ष्टिषेणस् राजर्षेः प्राप्य भूयस्त्वमाश्रमम्।
तमिस्रां प्रथमां तत्र वीतशोकभयो वस ॥ 3-163-10(22253)
अलकां सह गन्धर्वैर्यक्षैश्च सह किन्नरैः।
`गमिष्यामि महाबाहो त्वं चापि बदरीं व्रज' ॥ 3-163-11(22254)
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः।
रक्षन्तु त्वां महाबाहो सहितं द्विजसत्तमैः ॥ 3-163-12(22255)
साहसेषु च संतिष्ठंस्त्वया शैले वृकोदरः।
वार्यतां साध्वयं राजंस्त्वया धर्मभृतांवर ॥ 3-163-13(22256)
इतः परं च वो राजन्द्रक्ष्यन्ति वनगोचराः।
उपश्थास्यन्ति वो राजन्रक्षिष्यन्ते च वः सदा ॥ 3-163-14(22257)
तथैव चान्नपानानि स्वादूनि च बबूनि च।
आहरिष्यन्ति मत्प्रेष्याः सदा वः पुरुषर्षभाः ॥ 3-163-15(22258)
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः।
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥ 3-163-16(22259)
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः।
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ 3-163-17(22260)
अर्थतत्त्वविधानज्ञः सर्वधर्मविधानवित्।
भीमसेनादवरजः पल्गुनः कुशली दिवि ॥ 3-163-18(22261)
याः काश्चन मता लोके स्वर्ग्याः परमसंपदः।
जनमप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥ 3-163-19(22262)
द्रमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्।
एतान्यपि महासत्वे स्थितान्यमिततेजसि ॥ 3-163-20(22263)
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्।
न पार्थस् मृषोक्तानि कथयन्ति नरा नृषु ॥ 3-163-21(22264)
स देवपितृगन्धर्वैः कुरूणआं कीर्तिवर्धनः।
आनीतः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥ 3-163-22(22265)
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्।
स शन्तनुर्महातेजाः पितुस्तव पितामहः ॥ 3-163-23(22266)
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना।
सम्यक्वासौ महावीर्यः कुलधुर्य इव स्थितः ॥ 3-163-24(22267)
पितॄन्देवानृषीन्विप्रान्पूजयित्वा महायशाः।
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ 3-163-25(22268)
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः।
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ 3-163-26(22269)
वैशम्पायन उवाच। 3-163-27x(2303)
एतच्छ्रुत्वा तु वचनं धनदेन प्रभाषितम्।
पाण्डवाश्च ततस्तेन बभूवः संप्रहर्षिताः ॥ 3-163-27(22270)
ततः शक्तिं गदां खङ्गं धनुश्च भरतर्षभः।
प्राध्वंकृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ 3-163-28(22271)
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्।
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ 3-163-29(22272)
`विभयस्ताप शैलाग्रे वसानः सह बन्धुभिः।
सुपर्णपितृदेवानां सततं मानकृद्भव ॥ 3-163-30(22273)
ऋजुं पश्यत मा वक्रं सत्यं वदत माऽनृतम्।
दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्' ॥ 3-163-31(22274)
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः।
कामान्न परिहास्यन्ति यक्षा वोभरतर्षभाः ॥ 3-163-32(22275)
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः।
साक्षान्मघवतोत्सृष्टः संप्राप्स्यति धनंजयः ॥ 3-163-33(22276)
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्।
अस्तं गिरिमिवादित्यः प्रययौ गुह्यकाधिपः ॥ 3-163-34(22277)
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः।
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ 3-163-35(22278)
पक्षिणामिव कनिर्घोषः कुबेरसदनं प्रति।
बभूव परमाश्वानामैरावतपथे यथा ॥ 3-163-36(22279)
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः।
प्रकर्षन्त इवाभ्राणि पिबन्त इवमारुतम् ॥ 3-163-37(22280)
ततस्तानि शरीराणि गतसत्वानि रक्षसाम्।
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ 3-163-38(22281)
तेषां हि शापकालः स कृतोऽगस्त्येन धीमता।
समरे निहतास्तस्माच्छापस्यान्तोऽभवत्तदा ॥ 3-163-39(22282)
पाण्डवाश्महात्मानस्तेषु वेश्मसु तां क्षपाम्।
सुखमूषुर्गतोद्वेगाः पूजिताः सह राक्षसैः ॥ 3-163-40(22283)

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-163-1 दाक्ष्यं यत्नशीलता। पराक्रमः शत्रूणामभिभावनहेतुः क्रिया। विधानानां कार्याणां विधिरभ्युदयहेतुः। अदेशे अकाले च कृतं धृत्यादिकमभिभवहेतुरित्यर्थः ॥ 3-163-6 संरम्भात् कोपात् ॥ 3-163-8 निकृतीनां वञ्जनापराणाम् ॥ 3-163-9 अवलिप्तो गर्वितः ॥ 3-163-18 तत्त्वं याथात्म्यम्। विधानं प्राप्त्युपायम् ॥ 3-163-19 स्वर्ग्याः स्वर्गाय हिताः संपदः ॥ 3-163-22 कुरुते अभ्यस्यति ॥ 3-163-25 महामेधानश्वमेधान् ॥ 3-163-28 प्राध्वंकृत्वा बह्वा। उपसंहृत्येत्यर्थः ॥ 3-163-29 नन्दिः समृद्धिः ॥ 3-163-32 स्वेषु वेश्मसु अस्मदीयेषु। कामान् काम्यमानानर्थान् न परिहास्यन्ति किंतु साधयिष्यन्त्येवेत्यर्थः ॥ 3-163-35 परिस्तोमाश्रित्रकम्बला हस्त्यादीनां पल्याणभूताः ॥ 3-163-36 ऐरावतपथे इनद्रपुरीप्रदेशे ॥ 3-163-38 अपाकृष्यन्त अपाकृतानि ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.